श्री हयग्रीव स्तोत्रम्‌

श्रीमान्‌ वेङ्कट नाथार्यः कवितार्किक केसरी.
वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि
 ज्ञानानन्द मयं देवं निर्मलस्फटिकाकृतिम्‌ |
आधारं सर्व विद्यानां हयग्रीवम्‌ उपास्महे || .. १ ..
स्वतस्सिद्धं शुद्धस्फटिक मणिभूभृत्‌्‌ प्रतिभटं |
सुधा सध्रीचीभिर्‌्‌ धुतिभिर्‌्‌ अवदात त्रिभुवनम्‌्‌ |
अनन्तैस्त्रय्यन्तैर्‌्‌ अनुविहित हेषा हलहलं |
हता शेषा वद्यं हयवदन मीडी महि महः || .. २ ..
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्वेधजलधेः .
कथा दर्पक्षुभ्यत्‌्‌ कथककुल कोलाह लभवं
हरत्वन्तर्‌्‌ ध्वान्तं हयवदन हेषा हलहलः .. ३ ..