Skip to main content
श्री: | देशिकद्वारा संस्कृतम् |
पठतु संस्कृतम्
Main navigation
Show — Main navigation
Hide — Main navigation
Home
Stotram
About Sree-Ramanuja-Vidyalaya
Breadcrumb
Home
वेगासेतुस्तोत्रम्
एकं वेगवतीमध्ये हस्तिशैले च दृश्यते।
उपायफलभावेन स्वयं व्यक्तं परं महः॥१॥
Read More
ईष्टे गमयितुं पारम् एष सेतुरभङ्गुरः।
यत्र सारस्वतं स्रोतो विश्राम्यति विशृङ्खलम्॥२॥
Read More
जयति जगत् एकसेतुः वेगवती मध्य लक्षितो देवः।
प्रशमयति यः प्रजानां प्रथितान् संसार जलधि कल्लोलान्॥३॥
Read More
विभातु मे चेतसि विष्णु सेतुः वेगापगा वेग विघात हेतुः।
अम्भोजयोनेः यदुपज्ञमासीत् अभङ्गरक्षा हयमेध दीक्षा॥४॥
Read More
चतुरानन सप्ततन्तु गोप्ता सरितं वेगवतीमसौ निरुन्धन्।
परिपुष्यति मङ्गळानि पुंसां भगवान् भक्तिमतां यथोक्तकारी॥५॥
Read More
श्रीमान् पितामहवधू परिचर्यमाणः शेते भुजङ्गशयने स महाभुजङ्गः।
प्रत्यादिशन्ति भव सञ्चरणं प्रजानां भक्तानुगन्तुरिह यस्य गतागतानि॥६॥
Read More
प्रशमित हयमेध व्यापदं पद्मयोनेः श्रितजन परतन्त्रं शेषभोगे शयानम्।
शरणमुपगताः स्मः शान्त निःशेष दोषं शतमख मणि सेतुं शाश्वतं वेगवत्याः॥७॥
Read More
शरणमुपगतानां सोऽयमादेशकारी शमयति परितापं संमुखः सर्वजन्तोः।
शतगुण परिणामः सन्निधौ यस्य नित्यं वर वितरण भूमा वारणाद्रीश्वरस्य॥८॥
Read More
काञ्चीभाग्यं कमलनिलया चेतसोऽभीष्टसिद्धिः
कल्याणानां निधिरविकलः कोऽपि कारुण्यराशिः।
पुण्यानां नः परिणतिरसौ भूषयन् भोगिशय्यां
वेगासेतुर्जयति विपुलो विश्व रक्षैकहेतुः॥९॥
Read More
वेगासेतोरिदम् स्तोत्रं वेङ्कटेशेन निर्मितम्।
ये पठन्ति जनास्तेषां यथोक्तं कुरुते हरिः॥१०॥
Read More
Subscribe to वेगासेतुस्तोत्रम्